|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.45. अध्यायः 045
Mahabharata - Vana Parva - Chapter Topics
शक्रेण स्वर्गमागतं लोमशंप्रति पार्थमहिमानुवर्णनपूर्वकं युधिष्ठिराय तद्वृत्तान्तकथनप्रार्थना ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
`वैशम्पायन उवाच। 3-45-0x(1897)(17591)
ततो देवाः सगन्धर्वाः समादायार्घ्यमुत्तमम्।
शक्रस्य मतमाज्ञाय पार्थमानर्चुर्जसा ॥ 3-45-1(17592)
पाद्यमाचमनीयं च प्रतिग्राह्य नृपात्मजम्।
प्रवेशयामासुरथो पुरन्दरनिवेशनम् ॥ 3-45-2(17593)
एवं संपूजितो जिष्णुरुवास भवने पितुः।
उपशिक्षन्महास्त्राणि ससंहाराणि पाण्डवः ॥ 3-45-3(17594)
स शक्रहस्ताद्दयितं वज्रमस्त्रं दुरुत्सहम्।
अशनिं च महानादां मेघबृंहितलक्षणाम् ॥ 3-45-4(17595)
गृहीतास्त्रस्तु कौन्तेयो भ्रातॄन्सस्मार पाण्डवः।
पुरन्दरनियोगाच्च पञ्चाब्दमवसत्सुखम् ॥ 3-45-5(17596)
ततः शक्रोऽब्रवीत्पार्थं कृतास्त्रं काल आगते।
नृत्तं गीतं च कौन्तेय चित्रसेनादवाप्नुहि ॥ 3-45-6(17597)
वादित्रं दैवविहितं नृलके यन्न विद्ते।
मदाज्ञया च कौन्तेय श्रेयो वै ते भविष्ति ॥ 3-45-7(17598)
सखायं प्रददौ चास्य चित्रसेनं पुरन्दरः।
स तेन सह संगम्य रेमे पार्थो निरामयः ॥' 3-45-8(17599)
कदाचिदटमानस्तु महर्षिरथ लोमशः।
जगाम शक्रभवनं पुरंदरदिदृक्षया ॥ 3-45-9(17600)
स समेत्य नमस्कृत्य देवराजं महामुनिः।
ददर्शार्धासनगतं पाण्डवं वासवस्य हि ॥ 3-45-10(17601)
ततः शक्राभ्यनुज्ञात आसने विष्टरोत्तरे।
निषसाद द्विजश्रेष्ठः पूज्यमानो महर्षिभिः ॥ 3-45-11(17602)
तस्य दृष्ट्वाऽभवद्बुद्धिः पार्थमिन्द्रासने स्थितम्।
कथं नु क्षत्रियः पार्थः शक्रासनमवाप्तवान् ॥ 3-45-12(17603)
किं त्वस्य सुकृतं कर्म के लोका वै विनिर्जिताः।
स एवमनुसंप्राप्तः स्थानं देवनमस्कृतम् ॥ 3-45-13(17604)
तस्य विज्ञाय संकल्पं शक्रो वृत्रविमर्दनः।
लोमशं प्रहसन्वाक्यमिदमाह शचीपतिः ॥ 3-45-14(17605)
देवर्षे श्रूयतां यत्ते मनसैतद्विवक्षितम्।
नायं केवलमर्त्योऽभूत्क्षत्रियत्वमुपागतः ॥ 3-45-15(17606)
महर्षे मम पुत्रोऽयं कुन्त्यां जातो महाभुजः।
अस्त्रहेतोरिह प्राप्तः कस्माच्चित्कारणान्तरात् ॥ 3-45-16(17607)
अहो नैनं भवान्वेत्ति पुराणमृषिसत्तमम्।
शृणु मे वदतो ब्रह्मन्योऽयं यच्चास्य कारणम् ॥ 3-45-17(17608)
नरनारायणौ यौ तौ पुराणावृषिसत्तमौ।
ताविमावभिजानीहि हृषीकेशधनंजयौ ॥ 3-45-18(17609)
विख्यातौ त्रिषु लोकेषु नरनारायणावृषी।
कार्यार्थमवतीर्णौ तौ पृथ्वीं पुण्यप्रतिश्रयाम् ॥ 3-45-19(17610)
यन्न शक्यं शुरैर्द्रष्टुमृषिभिर्वा महात्मभिः।
तदाश्रमपदं पुण्यं बदरीनाम विश्रुतम् ॥ 3-45-20(17611)
स निवासोऽभवद्विप्र विष्णोर्जिष्णोस्तथैव च।
यतः प्रववृते गङ्गा सिद्धचारणसेविता ॥ 3-45-21(17612)
तौ मन्नियोगाद्ब्रह्मर्षे क्षितौ जातौ महाद्युती।
भूमेर्भारावतरणं महावीर्यौ करिष्यतः ॥ 3-45-22(17613)
उद्वृत्ता ह्यसुराः केचिन्निवातकवचा इति।
विप्रियेषु स्थिताऽस्माकं वरदानेन मोहिताः ॥ 3-45-23(17614)
तर्कयन्ते सुरान्हन्तुं बलदर्पसमन्विताः।
देवान्न गणयन्त्येते तथा दत्तवरा हि ते ॥ 3-45-24(17615)
पातालवासिनो रौद्रा दनोः पुत्रा महाबलाः।
सर्वे देवनिकाया हि नालं योधयितुं हि तान् ॥ 3-45-25(17616)
योसौ भूमिगतः श्रीमान्विष्णुर्मुधुनिषूदनः।
कपिलो नाम देवोसौ भगवानजितो हरिः ॥ 3-45-26(17617)
येन पूर्वंमहात्मानः खनमाना रसातलम्।
दर्शनादेव निहताः सगरस्यात्मजा विभो ॥ 3-45-27(17618)
तेन कार्यं महत्कार्यमस्माकं द्विजसत्तम।
पाथेन च महायुद्धे समेताभ्यामसंशयम् ॥ 3-45-28(17619)
सोऽसुरान्दर्शनादेव शक्तो हन्तुं सहानुगान्।
निवातकवचान्सर्वान्नागानिव महाह्रदे ॥ 3-45-29(17620)
किंतु नाल्पेन कार्येण प्रबोध्यो मधुसूदनः।
तेजसः सुमहाराशिः प्रबुद्धः प्रदहेज्जगत् ॥ 3-45-30(17621)
अयं तेषां समस्तानां शक्तः प्रतिसमासने।
तान्निहत्यरणे शूरः पुनर्यास्यति मानुषान् ॥ 3-45-31(17622)
भवानस्मन्नियोगेन यातु तावन्महीतलम्।
काम्यके द्रक्ष्यसे वीरं निवसन्तं युधिष्ठिरम् ॥ 3-45-32(17623)
सवाच्यो मम संदेशाद्धर्मात्मा सत्यसंगरः।
नोत्कणअठा फल्गुने कार्या कृतास्त्रः शीघ्रमेष्यति ॥ 3-45-33(17624)
नाशुद्बाहुवीर्येण नाकृतास्त्रेण वा रणे।
भीष्मद्रोणादयो युद्धे शक्याः प्रतिसमासितुम् ॥ 3-45-34(17625)
गृहीतास्त्रो गुडाकेशो महाबाहुर्महामनाः।
नृत्तवादित्रगीतानां दिव्यानां पारमीयिवान् ॥ 3-45-35(17626)
भवानपि विविक्तानि तीर्थानि मनुजेश्वर।
भ्रातृभिः सहितः सर्वैर्द्रष्टुमर्हत्यरिंदम ॥ 3-45-36(17627)
तीर्थेष्वाप्लुत्य पुण्येषु विपाप्मा विगतज्वरः।
राज्यं भोक्ष्यसि धर्मेण सुखी विगतकल्मपः ॥ 3-45-37(17628)
भवांश्चैनं द्विजश्रेष्ठ पर्यटन्तं महीतलम्।
त्रातुमर्हति विप्राग्र्य तपोबलसमन्वितः ॥ 3-45-38(17629)
गिरिदुर्गेषु च सदा देशेषु विषमेषु च।
वसन्ति रासा रौद्रास्तेभ्योरक्षां विधास्यति ॥ 3-45-39(17630)
एवमुक्ते महेन्द्रेण बीभत्सुरपि लोमशम्।
उवाच प्रयतो वाक्यं रक्षेथाः पाण्डुनन्दनम् ॥ 3-45-40(17631)
[यथा गुप्तस्त्वया राजा चरेत्तीर्थानि सत्तम।
दानं दद्याद्यथा चैव तथा कुरु महामुने ॥] 3-45-41(17632)
वैशम्पायन उवाच। 3-44-42x(1898)
तथेति संप्रतिज्ञाय लोमशः सुमहातपाः।
कामय्कं वनमुद्दिश्य समुपायान्महीतलम् ॥ 3-45-42(17633)
ददर्श तत्र कौन्तेयं धर्मराजमरिंदमम्।
तापसैर्भ्रातृभिश्चैव सर्वतः परिवारितम् ॥ 3-45-43(17634)
इति श्रीमन्महाभारते अरण्यपर्वणि इन्द्रलोकाभिगमनपर्वणि पञ्चचत्वारिंशोऽध्यायः ॥ 45 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-45-25 देवनिकायाः देवसमूहाः। नालं न समर्थाः ॥ 3-45-30 प्रबोध्यो विज्ञाप्यः ॥ 3-45-31 तेषां निवातकवचानाम्। प्रतिसमासने संक्षेपणे ॥ 3-45-35 गुडाकेशोऽर्जुनः ॥ 3-45-42 संप्रतिज्ञायाङ्गीकृत्य ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|